अथ तन्त्रोक्तं रात्रिसूक्तं
ॐ विश्वेश्वरींं जगद्धात्रींं स्थितिसंहारकारिणीम् ।
निद्रांं भगवतींं विष्णो रतूलां तेजसः प्रभुः ।। १ ।।
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।। २ ।।
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ।। ३ ।।
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।। ४ ।।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संह्यतिरूपान्ते जगतोऽस्य जगन्मये ।। ५ ।।
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ।। ६ ।।
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी ।
कालरात्रिर्महारात्रि र्मोहरात्रिश्च दारूणा ।। ७ ।।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।। ८ ।।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।। ९ ।।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ।
परा पराणां परमा त्वमेव परमेश्वरी ।। १० ।।
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ।। ११ ।।
यया त्वया जगत्स्रष्टा जगत्पात्यति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।। १२ ।।
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुंं शक्तिमान् भवेत् ।। १३ ।।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।। १४ ।।
प्रबोधं च जगत्स्वामी नीयता मच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ।। १५ ।।
इति रात्रिसूक्तं
****************