आचार्यादिवरणम्
उदङ्मुखमाचामुपवेश्य श्रद्धापूर्वकं गन्धादिभिः सम्पूज्य
वरणसामग्रीमादाय - ॐ तत्सद् ओकगोत्रोत्पन्नः अमुकप्रवरान्वितः अमुकशर्माऽहम् अमुकगोत्रोत्पन्नममुक - प्रवरान्वितं शुक्लयाजुर्वेदान्तर्गत - वाजसनेय माध्यन्दिनीय शाखाध्यायिनम् अमुकशर्माणं ब्राह्मणं अस्मिन् कर्त्तव्ये अमुकयागाख्ये कर्मणि दास्यमानैः एभिर्वरणद्रव्यैः आचार्यत्वेन त्वामहं वृणे | वृतोऽस्मीत्याचार्यः |
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः |
तथात्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ||
ब्रह्मवरणम् - अद्य पूर्वोच्चारित .......... अस्मिन् कर्मणि एभिर्वरणद्रव्यैः गोत्रममुकशर्माणं ब्राह्मणं ब्रह्मत्वेन त्वामहं वृणे |
ततो ब्रह्मावृतोऽस्मीति प्रतिवचनं ब्रूयात् |
यथा चतुर्मुखो ब्रह्मा सर्वलोक पितामहः |
तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तम ||
ऋत्विक्वरणम् - अस्मिन् कर्त्तव्ये अमुकयागाख्ये कर्मणि दास्यमानैः एभिर्वरणद्रव्यैरमुकगोत्रममुकशर्माणं ब्राह्मणं ऋत्विक्त्वेन त्वामहं वृणे |
वृतोऽस्मि इति विप्रः प्रतिवचनम् |
ॐ ब्रतेन दीक्षामाप्नोति दीक्षायाप्नोति दक्षिणाम् |
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्य माप्यते ||
ततो यजमानः करसम्पुटं कृत्वा सर्वान् प्रार्थयेत् -
प्रार्थना -
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः |
देवध्यानरताः नित्यं प्रसन्न मनसः सदा ||
अदुष्ट भाषणाः सन्तु मा सन्तु परनिन्दकाः |
ममापि नियता ह्येते भवन्तु भवतामपि ||
ऋत्विजश्च यथा पूर्वं शक्रादीनां मखेऽभवन् |
यूयं तथा मे भवत ऋत्विजो द्विजसत्तमाः ||
अस्मिन्कर्मणि ये विप्राः वृता गुरुमुखादयः |
सावधानाः प्रकुर्वन्तु स्वं स्वं कर्म यथोदितम् ||
अस्य यागस्य निष्पत्तौ भवन्तोऽभ्यर्थिता मया |
सुप्रसन्नैः प्रकर्तव्यं कर्मेदं विधि पूर्वकम् ||
यजमानः - यथा विहितं कर्म कुरु |
विप्रः - यथा ज्ञानं करवाणि (करवामः) ||
आचार्यद्वारा यजमानहस्ते रक्षाबन्धनम् -
ॐ यदाबध्नन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मानाः |
तन्नऽआबध्नामि शत शारदाया युष्मान् जर दष्टिर्यथा सम् ||
येन बद्धो बली राजा दानवेन्द्रो महाबलः |
तेन त्वामनुबध्नामि रक्षे मा चल मा चल ||
यजमानपत्न्याः वामहस्ते कङ्कणबन्धनम् -
ॐ तं पत्नी भिरनु गच्छेम देवाः पुत्रैर्ब्भ्रातृ भिरुतवा हिरणैः |
नाकं गृब्भ्णानाः सुकृतस्य लोके तृतीये पृष्ठेऽअधिरोचने दिवः ||
गृहयज्ञ फलावाप्त्यै कङ्कणं सूत्रनिर्मितम् |
हस्ते बध्नामि सुभगे त्वं जीव शरदां शतम् ||
दिग्रक्षणम् - पूर्वोक्त रीत्या कार्यम् |
वाम हस्ते पीतसर्षपान् गृहीत्वा दक्षिण हस्तेन आच्छाद्य अभिमन्त्रयेत् ॐ रक्षोहणं वलगहनं वैष्णवी मिदमहन्तं वलगमुत्किरामि यम्मे निष्टयो यममात्त्यो निचखाने दमहन्तं वलग मुत्किरामि यम्मे सबन्धुर्यम सबन्धुर्निचखाने दमहन्तं वलग मुत्किरामि यम्मे सजातो यम सजातो निचखानोत्त्कृत्त्यांकिरामि ||
पञ्चगव्यकरणम् -
ॐ यत्वगस्थिगतं पापं देहे तिष्ठति मामके |
प्राशनात् पंचगव्यस्य दहत्यग्निरिवेन्धनम् ||