🔱
OM ASTTRO UNIVERSE
Om Trivedi / Kanishk Trivedi
Join Our Official WhatsApp Channel
🔮 Vedic Astrology 🔱 Tantra 📜 Ravan Samhita 🎙️ Podcast 🕉️ Sanatan Mysteries
OFFICIAL CHANNEL JOIN NOW

तृतीयोऽध्यायः

OM ASTTRO UNIVERSE

 ॥अध्याय 1॥ ॥अध्याय 2॥ ॥अध्याय 3॥ ॥अध्याय 4॥ ॥अध्याय 5॥ ॥अध्याय 6॥ ॥अध्याय 7॥ 

॥अध्याय 8॥

॥अध्याय 9॥ ॥अध्याय 10॥ ॥अध्याय 11॥ ॥अध्याय 12॥ ॥अध्याय 13॥


 दुर्गा सप्तशती एक हिन्दु धार्मिक ग्रन्थ है जिसमें राक्षस महिषासुर पर देवी दुर्गा की विजय का वर्णन है। दुर्गा सप्तशती को देवी महात्म्य, चण्डी पाठ के नाम से भी जाना जाता है। इसमें 700 श्लोक हैं, जिन्हें 13 अध्यायों में बाँटा गया है।


दुर्गा सप्तशती का तृतीय अध्याय "महिषासुर वध" पर आधारित है।


॥ श्रीदुर्गासप्तशती - तृतीयोऽध्यायः ॥

सेनापतियोंसहित महिषासुर का वध


॥ ध्यानम् ॥

ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां

रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।

हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं

देवीं बद्धहिमांशुरत्‍नमुकुटां वन्देऽरविन्दस्थिताम्॥


"ॐ" ऋषिररुवाच॥1॥


निहन्यमानं तत्सैन्यमवलोक्य महासुरः।

सेनानीश्‍चिक्षुरः कोपाद्ययौ योद्‍धुमथाम्बिकाम्॥2॥


स देवीं शरवर्षेण ववर्ष समरेऽसुरः।

यथा मेरुगिरेः श्रृङ्‌गं तोयवर्षेण तोयदः॥3॥


तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्।

जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥4॥


चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम्।

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः॥5॥


सच्छिन्नधन्वा विरथो हताश्‍वो हतसारथिः।

अभ्यधावत तां देवीं खड्‌गचर्मधरोऽसुरः॥6॥


सिंहमाहत्य खड्‌गेन तीक्ष्णधारेण मूर्धनि।

आजघान भुजे सव्ये देवीमप्यतिवेगवान्॥7॥


तस्याः खड्‌गो भुजं प्राप्य पफाल नृपनन्दन।

ततो जग्राह शूलं स कोपादरुणलोचनः॥8॥


चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात्॥9॥


दृष्ट्‍वा तदापतच्छूलं देवी शूलममुञ्चत।

तच्छूलं* शतधा तेन नीतं स च महासुरः॥10॥


हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।

आजगाम गजारूढश्‍चामरस्त्रिदशार्दनः॥11॥


सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम्।

हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम्॥12॥


भग्नां शक्तिं निपतितां दृष्ट्‌वा क्रोधसमन्वितः।

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत्॥13॥


ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः।

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा॥14॥


युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ।

युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः॥15॥


ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।

करप्रहारेण शिरश्‍चामरस्य पृथक्कृतम्॥16॥


उदग्रश्‍च रणे देव्या शिलावृक्षादिभिर्हतः।

दन्तमुष्टितलैश्‍चैव करालश्‍च निपातितः॥17॥


देवी क्रुद्धा गदापातैश्‍चूर्णयामास चोद्धतम्।

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम्॥18॥


उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्।

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी॥19॥


बिडालस्यासिना कायात्पातयामास वै शिरः।

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम्*॥20॥


एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः।

माहिषेण स्वरूपेण त्रासयामास तान् गणान्॥21॥


कांश्‍चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।

लाङ्‌गूलताडितांश्‍चान्याञ्छृङ्‌गाभ्यां च विदारितान्॥22॥


वेगेन कांश्‍चिदपरान्नादेन भ्रमणेन च।

निःश्वासपवनेनान्यान् पातयामास भूतले॥23॥


निपात्य प्रमथानीकमभ्यधावत सोऽसुरः।

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका॥24॥


सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।

श्रृङ्‌गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च॥25॥


वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत।

लाङ्‌गूलेनाहतश्‍चाब्धिः प्लावयामास सर्वतः॥26॥


धुतश्रृङ्‌गविभिन्नाश्‍च खण्डं* खण्डं ययुर्घनाः।

श्‍वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः॥27॥


इति क्रोधसमाध्मातमापतन्तं महासुरम्।

दृष्ट्‌वा सा चण्डिका कोपं तद्वधाय तदाकरोत्॥28॥


सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम्।

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे॥29॥


ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः

छिनत्ति तावत्पुरुषः खड्‌गपाणिरदृश्यत॥30॥


तत एवाशु पुरुषं देवी चिच्छेद सायकैः।

तं खड्‌गचर्मणा सार्धं ततः सोऽभून्महागजः॥31॥


करेण च महासिंहं तं चकर्ष जगर्ज च।

कर्षतस्तु करं देवी खड्‌गेन निरकृन्तत॥32॥


ततो महासुरो भूयो माहिषं वपुरास्थितः।

तथैव क्षोभयामास त्रैलोक्यं सचराचरम्॥33॥


ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम्।

पपौ पुनः पुनश्‍चैव जहासारुणलोचना॥34॥


ननर्द चासुरः सोऽपि बलवीर्यमदोद्‌धतः।

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान्॥35॥


सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः।

उवाच तं मदोद्‌धूतमुखरागाकुलाक्षरम्॥36॥


देव्युवाच॥37॥


गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः॥38॥


ऋषिरुवाच॥39॥


एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम्।

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्॥40॥


ततः सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्ततः।

अर्धनिष्क्रान्त एवासीद्* देव्या वीर्येण संवृतः॥41॥


अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः।

तया महासिना देव्या शिरश्छित्त्वा निपातितः*॥42॥


ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।

प्रहर्षं च परं जग्मुः सकला देवतागणाः॥43॥


तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः।

जगुर्गन्धर्वपतयो ननृतुश्‍चाप्सरोगणाः॥ॐ॥44॥


॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

महिषासुरवधो नाम तृतीयोऽध्यायः॥३॥

उवाच ३, श्‍लोकाः ४१, एवम् ४४,

एवमादितः॥२१७ ॥

To Top