🔱
OM ASTTRO UNIVERSE
Om Trivedi / Kanishk Trivedi
Join Our Official WhatsApp Channel
🔮 Vedic Astrology 🔱 Tantra 📜 Ravan Samhita 🎙️ Podcast 🕉️ Sanatan Mysteries
OFFICIAL CHANNEL JOIN NOW

अष्टमोऽध्यायः

OM ASTTRO UNIVERSE

 ॥अध्याय 1॥ ॥अध्याय 2॥ ॥अध्याय 3॥ ॥अध्याय 4॥ ॥अध्याय 5॥ ॥अध्याय 6॥ ॥अध्याय 7॥ 

॥अध्याय 8॥

॥अध्याय 9॥ ॥अध्याय 10॥ ॥अध्याय 11॥ ॥अध्याय 12॥ ॥अध्याय 13॥


दुर्गा सप्तशती एक हिन्दु धार्मिक ग्रन्थ है जिसमें राक्षस महिषासुर पर देवी दुर्गा की विजय का वर्णन है। दुर्गा सप्तशती को देवी महात्म्य, चण्डी पाठ के नाम से भी जाना जाता है। इसमें 700 श्लोक हैं, जिन्हें 13 अध्यायों में बाँटा गया है।


दुर्गा सप्तशती का अष्टम अध्याय "रक्तबीज वध" पर आधारित है।


॥ श्रीदुर्गासप्तशती - अष्टमोऽध्यायः ॥

रक्तबीज-वध


॥ ध्यानम् ॥

ॐ अरुणां करुणातरङ्‌गिताक्षीं

धृतपाशाङ्‌कुशबाणचापहस्ताम्।

अणिमादिभिरावृतां मयूखै-

रहमित्येव विभावये भवानीम्॥


"ॐ" ऋषिरुवाच॥1॥


चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।

बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्‍वरः॥2॥


ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।

उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह॥3॥


अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः।

कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥4॥


कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै।

शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥5॥


कालका दौर्हृद मौर्याः कालकेयास्तथासुराः।

युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम॥6॥


इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः।

निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः॥7॥


आयान्तं चण्डिका दृष्ट्‌वा तत्सैन्यमतिभीषणम्।

ज्यास्वनैः पूरयामास धरणीगगनान्तरम्॥8॥


ततः* सिंहो महानादमतीव कृतवान् नृप।

घण्टास्वनेन तन्नादमम्बिका* चोपबृंहयत्॥9॥


धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्‌मुखा।

निनादैर्भीषणैः काली जिग्ये विस्तारितानना॥10॥


तं निनादमुपश्रुत्य दैत्यसैन्यैश्‍चतुर्दिशम्।

देवी सिंहस्तथा काली सरोषैः परिवारिताः॥11॥


एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम्।

भवायामरसिंहानामतिवीर्यबलान्विताः॥12॥


ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः।

शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्‍चण्डिकां ययुः॥13॥


यस्य देवस्य यद्रूपं यथाभूषणवाहनम्।

तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ॥14॥


हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः।

आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते॥15॥


माहेश्‍वरी वृषारूढा त्रिशूलवरधारिणी।

महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा॥16॥


कौमारी शक्तिहस्ता च मयूरवरवाहना।

योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी॥17॥


तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता।

शङ्‌खचक्रगदाशाङ्‌र्गखड्‌गहस्ताभ्युपाययौ॥18॥


यज्ञवाराहमतुलं* रूपं या बिभ्रतो* हरेः।

शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम्॥19॥


नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः।

प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः॥20॥


वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता।

प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा॥21॥


ततः परिवृतस्ताभिरीशानो देवशक्तिभिः।

हन्यन्तामसुराः शीघ्रं मम प्रीत्याऽऽहचण्डिकाम्॥22॥


ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा।

चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी॥23॥


सा चाह धूम्रजटिलमीशानमपराजिता।

दूत त्वं गच्छ भगवन् पार्श्‍वं शुम्भनिशुम्भयोः॥24॥


ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ।

ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः॥25॥


त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ॥26॥


बलावलेपादथ चेद्भवन्तो युद्धकाङ्‌क्षिणः।

तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः॥27॥


यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम्।

शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता॥28॥


तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः।

अमर्षापूरिता जग्मुर्यत्र* कात्यायनी स्थिता॥29॥


ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः।

ववर्षुरुद्धतामर्षास्तां देवीममरारयः॥30॥


सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्‍वधान्।

चिच्छेद लीलयाऽऽध्मातधनुर्मुक्तैर्महेषुभिः॥31॥


तस्याग्रतस्तथा काली शूलपातविदारितान्।

खट्‌वाङ्‌गपोथितांश्‍चारीन् कुर्वती व्यचरत्तदा॥32॥


कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः।

ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति॥33॥


माहेश्‍वरी त्रिशूलेन तथा चक्रेण वैष्णवी।

दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना॥34॥


ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः।

पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः॥35॥


तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः।

वाराहमूर्त्या न्यपतंश्‍चक्रेण च विदारिताः॥36॥


नखैर्विदारितांश्‍चान्यान् भक्षयन्ती महासुरान्।

नारसिंही चचाराजौ नादापूर्णदिगम्बरा॥37॥


चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः।

पेतुः पृथिव्यां पतितांस्तांश्‍चखादाथ सा तदा॥38॥


इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान्।

दृष्ट्‌वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः॥39॥


पलायनपरान् दृष्ट्‌वा दैत्यान् मातृगणार्दितान्।

योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः॥40॥


रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः।

समुत्पतति मेदिन्यां* तत्प्रमाणस्तदासुरः॥41॥


युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः।

ततश्‍चैन्द्री स्ववज्रेण रक्तबीजमताडयत्॥42॥


कुलिशेनाहतस्याशु बहु* सुस्राव शोणितम्।

समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः॥43॥


यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः।

तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः॥44॥


ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः।

समं मातृभिरत्युग्रशस्त्रपातातिभीषणम्॥45॥


पुनश्‍च वज्रपातेन क्षतमस्य शिरो यदा।

ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः॥46॥


वैष्णवी समरे चैनं चक्रेणाभिजघान ह।

गदया ताडयामास ऐन्द्री तमसुरेश्‍वरम्॥47॥


वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः।

सहस्रशो जगद्‌व्याप्तं तत्प्रमाणैर्महासुरैः॥48॥


शक्त्या जघान कौमारी वाराही च तथासिना।

माहेश्‍वरी त्रिशूलेन रक्तबीजं महासुरम्॥49॥


स चापि गदया दैत्यः सर्वा एवाहनत् पृथक्।

मातॄः कोपसमाविष्टो रक्तबीजो महासुरः॥50॥


तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि।

पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः॥51॥


तैश्‍चासुरासृक्सम्भूतैरसुरैः सकलं जगत्।

व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्॥52॥


तान् विषण्णान् सुरान् दृष्ट्‌वा चण्डिका प्राह सत्वरा।

उवाच कालीं चामुण्डे विस्तीर्णं* वदनं कुरु॥53॥


मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान्।

रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना*॥54॥


भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान्।

एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति॥55॥


भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे*।

इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम्॥56॥


मुखेन काली जगृहे रक्तबीजस्य शोणितम्।

ततोऽसावाजघानाथ गदया तत्र चण्डिकाम्॥57॥


न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि।

तस्याहतस्य देहात्तु बहु सुस्राव शोणितम्॥58॥


यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति।

मुखे समुद्गता येऽस्या रक्तपातान्महासुराः॥59॥


तांश्‍चखादाथ चामुण्डा पपौ तस्य च शोणितम्।

देवी शूलेन वज्रेण* बाणैरसिभिर्ऋष्टिभिः॥60॥


जघान रक्तबीजं तं चामुण्डापीतशोणितम्।

स पपात महीपृष्ठे शस्‍त्रसङ्घसमाहतः*॥61॥


नीरक्तश्‍च महीपाल रक्तबीजो महासुरः।

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप॥62॥


तेषां मातृगणो जातो ननर्तासृङ्‌मदोद्धतः॥ॐ॥63॥


॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये

रक्तबीजवधो नामाष्टमोऽध्यायः॥८॥

उवाच १, अर्धश्‍लोकः १, श्‍लोकाः ६१,

एवम् ६३, एवमादितः॥५०२ ॥

To Top